श्रवणम्

9.38.5
ए॒ष स्य मद्यो॒ रसो॑व᳚ चष्टे दि॒वः शिशु᳚ः ।
य इन्दु॒र्वार॒मावि᳚शत् ॥
▶ पदपाठः (Word-by-word)
ए॒षः । स्यः । मद्यः᳚ । रसः᳚ । अव᳚ । च॒ष्टे॒ । दि॒वः । शिशुः᳚ ।
यः । इन्दुः᳚ । वार᳚म् । आ । अवि᳚शत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्यः सएषः मद्योमदनिमित्तोरसोवचष्टे सर्वमवपश्यति दिवः शिशुः द्युपुत्रः । तत्रोत्पत्तेः पुत्रत्वमस्य । यइन्दुर्दीप्तः सोमो वारं दशापवित्रमाविश- दाविशति सएषइति ॥ ५ ॥