ए॒तं त्रि॒तस्य॒ योष᳚णो॒ हरिं᳚ हिन्व॒न्त्यद्रि᳚भिः ।
इन्दु॒मिन्द्रा᳚य पी॒तये᳚ ॥
इन्दु॒मिन्द्रा᳚य पी॒तये᳚ ॥
पदपाठः (Word-by-word)
ए॒तम् । त्रि॒तस्य᳚ । योष᳚णः । हरि᳚म् । हि॒न्व॒न्ति॒ । अद्रि᳚॑भिः ।
इन्दु᳚म् । इन्द्रा᳚य । पी॒तये᳚ ॥
इन्दु᳚म् । इन्द्रा᳚य । पी॒तये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
एतमिन्दुं क्लिद्यमानं हरिं हरितवर्णं सोमं त्रितस्य ऋषेर्योषणोंगुलयोद्रिभिः हिन्वन्ति इन्द्रायेन्द्रस्य पीतये पानाय ॥ २ ॥