श्रवणम्

9.38.4
ए॒ष स्य मानु᳚षी॒ष्वा श्ये॒नो न वि॒क्षु सी᳚दति ।
गच्छ᳚ञ्जा॒रो न यो॒षित᳚म् ॥
▶ पदपाठः (Word-by-word)
ए॒षः । स्यः । मानु᳚षीषु । आ । श्ये॒नः । न । वि॒क्षु । सी॒द॒ति॒ ।
गच्छ᳚न् । जा॒रः । न । यो॒षित᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्यः सएषसोमो मानुषीषु विक्षु प्रजासु यजमानरूपासु अनुग्रहेण आसीदति श्येनोन श्येनइव । पुनः कइव योषितं गच्छन् अभिगच्छन् जारोन जारइव सयथा संकेतितः तस्याः कामपूरणाय गूढोगच्छति तद्वदित्यर्थः ॥ ४ ॥