श्रवणम्

9.38.3
ए॒तं त्यं ह॒रितो॒ दश᳚ मर्मृ॒ज्यन्ते᳚ अप॒स्युवः᳚ ।
याभि॒र्मदा᳚य॒ शुम्भ᳚ते ॥
▶ पदपाठः (Word-by-word)
ए॒तम् । त्यम् । ह॒रितः᳚ । दश᳚ । म॒र्मृ॒ज्यन्ते᳚ । अ॒प॒स्युवः᳚ ।
याभिः᳚ । मदा᳚य । शुम्भ᳚ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

एतं त्यं तं सोममध्वर्योर्दश हरितो हरणस्वभावा अंगुलयः अपस्युवः कर्मेच्छवः सत्योमर्मृज्यन्ते शोधयन्ति याभिरन्द्रस्य मदाय शुंभते दीप्यते शोध्यतइत्यर्थः तं एतमिति संबन्धः ॥ ३ ॥