यो अत्य᳚ इव मृ॒ज्यते॒ गोभि॒र्मदा᳚य हर्य॒तः ।
तं गी॒र्भिर्वा᳚सयामसि ॥
तं गी॒र्भिर्वा᳚सयामसि ॥
पदपाठः (Word-by-word)
यः । अत्यः᳚॑इव । मृ॒ज्यते᳚ । गोभिः᳚ । मदा᳚य । ह॒र्य॒तः ।
तम् । गीः॒॑भिः । वा॒स॒या॒म॒सि॒ ॥
तम् । गीः॒॑भिः । वा॒स॒या॒म॒सि॒ ॥
सायणभाष्यम् (Sayana Commentary)
यः सोमः अत्यइव अतनशीलोश्वइव गोभिर्वस्तीवरीभिराद्भिर्गोविकारैः पयाआदिभिर्वा मृज्यते मिश्र्यते किमर्थं मदाय देवानाम् । कीदृशोयः हर्यतः कान्तः तं सोमं गीर्भिः स्तुतिभिर्वासयामसि वासयामः ॥ १ ॥