श्रवणम्

9.43.3
पु॒ना॒नो या᳚ति हर्य॒तः सोमो᳚ गी॒र्भिः परि᳚ष्कृतः ।
विप्र᳚स्य॒ मेध्या᳚तिथेः ॥
▶ पदपाठः (Word-by-word)
पु॒ना॒नः । या॒ति॒ । ह॒र्य॒तः । सोमः᳚ । गीः॒॑भिः । परि᳚॑कृतः ।
विप्र᳚स्य । मेध्य᳚॑अतिथेः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुनानः पूयमानोहर्यतः कमनीयः सोमोगीर्भिः परिष्कृतः स्तुतिभिरलंकृतोयाति कलशंप्रति । किमर्थं विप्रस्य मेधाविनो मेध्यातिथेर्ममयागार्थं यद्वा ममगीर्भिरिति संबंधः ॥ ३ ॥