श्रवणम्

9.43.2
तं नो॒ विश्वा᳚ अव॒स्युवो॒ गिरः᳚ शुम्भन्ति पू॒र्वथा᳚ ।
इन्दु॒मिन्द्रा᳚य पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । नः॒ । विश्वाः᳚ । अ॒व॒स्युवः᳚ । गिरः᳚ । शु॒म्भ॒न्ति॒ । पू॒र्व॑था᳚ ।
इन्दु᳚म् । इन्द्रा᳚य । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तमिन्दुं सोमं नोस्माकं विश्वाः सर्वाअवस्युवः अवोरक्षणं तदिच्छंत्योगिरः स्तुतयः पूर्वथा पूर्वमिव पूर्वं यथा तथैवेदानीमपि शुंभन्ति दीपयंति किमर्थमिन्द्रायेन्द्रस्य पीतये पानाय ॥ २ ॥