श्रवणम्

9.43.5
इन्दु॒रत्यो॒ न वा᳚ज॒सृत्कनि᳚क्रन्ति प॒वित्र॒ आ ।
यदक्षा॒रति᳚ देव॒युः ॥
▶ पदपाठः (Word-by-word)
इन्दुः᳚ । अत्यः᳚ । न । वा॒ज॒॑सृत् । कनि᳚क्रन्ति । प॒वित्रे᳚ । आ ।
यत् । अक्षाः᳚ । अति᳚ । दे॒व॒॑युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः इन्द्रुः वाजसृत् संग्रामसरणः अत्योन अश्वइव पवित्र आ पवित्रे कनिक्रन्ति शब्दं करोति यद्यदा अक्षाः क्षरति । क्षरसंचलने इत्यस्माच्छान्दसे लुङि तिपि सिच् बहुलंछन्दसीतीडभावः इडभावश्च रात्सस्येतिसलोपः । देवयुर्देवकामः सन् तदा अतिशब्दं करोति ॥ ५ ॥