पव᳚स्व॒ वाज᳚सातये॒ विप्र᳚स्य गृण॒तो वृ॒धे ।
सोम॒ रास्व᳚ सु॒वीर्य᳚म् ॥
सोम॒ रास्व᳚ सु॒वीर्य᳚म् ॥
पदपाठः (Word-by-word)
पव᳚स्व । वाज᳚॑सातये । विप्र᳚स्य । गृ॒ण॒तः । वृ॒धे ।
सोम᳚ । रास्व᳚ । सु॒॑वीर्य᳚म् ॥
सोम᳚ । रास्व᳚ । सु॒॑वीर्य᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम पवस्व क्षर । किमर्थं वाजसातयेन्नस्य लाभाय । तथा गृणतः स्तुवतो विप्रस्य मम मेध्यातिथेर्वृधे वर्धनायच हे सोम सुवीर्यं शोभनवीर्यो- पेतं पुत्रंच रास्व देहीति ॥ ६ ॥
वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक् संहिताभाष्ये षष्ठाष्टकेष्टमोध्यायः ॥ ८ ॥
॥ इतिषष्ठोष्टकः समाप्तः ॥ ६ ॥