श्रवणम्

9.43.4
पव᳚मान वि॒दा र॒यिम॒स्मभ्यं᳚ सोम सु॒श्रिय᳚म् ।
इन्दो᳚ स॒हस्र᳚वर्चसम् ॥
▶ पदपाठः (Word-by-word)
पव᳚मान । वि॒दाः । र॒यिम् । अ॒स्मभ्य᳚म् । सो॒म॒ । सु॒॑श्रिय᳚म् ।
इन्दो॒ इति᳚ । स॒हस्र᳚॑वर्चसम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमानसोम इन्दोस्मभ्यं सुश्रियं शोभनया श्रिया युक्तं सहस्रवर्चसं बहुदीप्तिं रयिं धनं विदाः देहीत्यर्थः ॥ ४ ॥