श्रवणम्

9.14.1
परि॒ प्रासि᳚ष्यदत्क॒विः सिन्धो᳚रू॒र्मावधि᳚ श्रि॒तः ।
का॒रं बिभ्र᳚त्पुरु॒स्पृह᳚म् ॥
▶ पदपाठः (Word-by-word)
परि᳚ । प्र । अ॒सि॒स्य॒द॒त् । क॒विः । सिन्धोः᳚ । ऊ॒र्मौ । अधि᳚ । श्रि॒तः ।
का॒रम् । बिभ्र᳚त् । पु॒रु॒॑स्पृह᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

परिप्रासिष्यदत् परिप्रस्यन्दते कविर्मेधावी सोमः सिन्धोरूर्मौ तरंगे वसतीवर्युदकरसे अधिश्रितः आश्रितः पुरुस्पृहं बहुभिः स्पृहणीयं कारं शब्दं बिभ्रत् धारयन् परिस्यन्दतइति संबन्धः ॥ १ ॥