श्रवणम्

9.14.7
अ॒भि क्षिप॒ः सम᳚ग्मत म॒र्जय᳚न्तीरि॒षस्पति᳚म् ।
पृ॒ष्ठा गृ᳚भ्णत वा॒जिनः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒भि । क्षिपः᳚ । सम् । अ॒ग्म॒त॒ । म॒र्जय᳚न्तीः । इ॒षः । पति᳚म् ।
पृ॒ष्ठा । गृ॒भ्ण॒त॒ । वा॒जिनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

क्षिपागुलयो मर्जयन्तीः अभिमृशन्त्यः इषस्पतिं अन्नानां स्वामिनं सोमं अभि समग्मत अभिसंगच्छन्ते संगत्यच वाजिनोबलवतः सोमस्य पृष्ठा पृष्ठानि गृभ्णत गृह्णन्ति अभिपवांगुभ्णयः ॥ ७ ॥