श्रवणम्

9.14.3
आद᳚स्य शु॒ष्मिणो॒ रसे॒ विश्वे᳚ दे॒वा अ᳚मत्सत ।
यदी॒ गोभि᳚र्वसा॒यते᳚ ॥
▶ पदपाठः (Word-by-word)
आत् । अ॒स्य॒ । शु॒ष्मिणः᳚ । रसे᳚ । विश्वे᳚ । दे॒वाः । अ॒म॒त्स॒त॒ ।
यदि᳚ । गोभिः᳚ । व॒सा॒यते᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आत् परिष्करणानन्तरमेव शुष्मिणः बलवतोस्यसोमस्य रसे विश्वेदेवा अमत्सत अमाद्यन्त । यदि यदा गोभिः गोविकारैः विकारे प्रकृतिशब्दः क्षीरादिभिः वसायते आच्छाद्यते ॥ ३ ॥