परि᳚ दि॒व्यानि॒ मर्मृ᳚श॒द्विश्वा᳚नि सोम॒ पार्थि᳚वा ।
वसू᳚नि याह्यस्म॒युः ॥
वसू᳚नि याह्यस्म॒युः ॥
पदपाठः (Word-by-word)
परि᳚ । दि॒व्यानि᳚ । मर्मृ᳚शत् । विश्वा᳚नि । सो॒म॒ । पार्थि᳚वा ।
वसू᳚नि । या॒हि॒ । अ॒स्म॒॑युः ॥
वसू᳚नि । या॒हि॒ । अ॒स्म॒॑युः ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम दिव्यानि पार्थिवा पार्थिवानिच विश्वानि सर्वाणि वसूनि धनानि परिमर्मृशत् परिमृशन् परिगृह्णन् अस्मयुरस्मान् कामयमानो याहि आगच्छ । एवमभिषुण्वन् रसं संबोध्य ब्रूते ॥ ८ ॥
एषधियेत्यष्टर्चं पंचदशं सूक्तं ऋष्याद्याः पूर्ववत् । एषधियेत्यनुक्रान्तं गतोविनियोगः ।