अति᳚ श्रि॒ती ति᳚र॒श्चता᳚ ग॒व्या जि᳚गा॒त्यण्व्या᳚ ।
व॒ग्नुमि᳚यर्ति॒ यं वि॒दे ॥
व॒ग्नुमि᳚यर्ति॒ यं वि॒दे ॥
पदपाठः (Word-by-word)
अति᳚ । श्रि॒ती । ति॒र॒श्चता᳚ । ग॒व्या । जि॒गा॒ति॒ । अण्व्या᳚ ।
व॒ग्नुम् । इ॒य॒र्ति॒ । यम् । वि॒दे ॥
व॒ग्नुम् । इ॒य॒र्ति॒ । यम् । वि॒दे ॥
सायणभाष्यम् (Sayana Commentary)
अण्व्या अंगुल्या अभिषूयमाणः सोमः गव्या गव्यानि श्रिती श्रित्यै श्रयणार्थं तिरश्चता तिरश्चीनं अतिजिगाति । अंशुमतिक्रम्यगच्छति । तथांगुल्याभिषूयमाणो विदे यजमानस्य ज्ञानार्थं यं वग्नुं शब्दमियतिं प्रेरयति ॥ ६ ॥