न॒प्तीभि॒र्यो वि॒वस्व᳚तः शु॒भ्रो न मा᳚मृ॒जे युवा᳚ ।
गाः कृ᳚ण्वा॒नो न नि॒र्णिज᳚म् ॥
गाः कृ᳚ण्वा॒नो न नि॒र्णिज᳚म् ॥
पदपाठः (Word-by-word)
न॒प्तीभिः᳚ । यः । वि॒वस्व᳚तः । शु॒भ्रः । न । म॒मृ॒जे । युवा᳚ ।
गाः । कृ॒ण्वा॒नः । न । निः॒॑निज᳚म् ॥
गाः । कृ॒ण्वा॒नः । न । निः॒॑निज᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
यः सोमोविवस्वतः परिचरणवतो यजमानस्य नप्तीभिः पौत्रस्थानीयाभिः तस्य हस्तः पुत्रः । अंगुलयः पौत्रस्थानीया इत्यभिप्रायः । मामृजे मृज्यते शुभ्रोनदीप्तोश्वोयुवाइव यथा अप्रवृद्धोश्वो मृज्यते स्वपरिचारकैस्तद्वत् । सएव युवा मिश्रणशीलः सोमो निर्निजम् । निर्निगितिरूपनाम । स्वकीयं रूपं गाः न कृण्वानः गोविकारांश्च कुर्वाणोभवतीतिशेषः ॥ ५ ॥