नि॒रि॒णा॒नो वि धा᳚वति॒ जह॒च्छर्या᳚णि॒ तान्वा᳚ ।
अत्रा॒ सं जि᳚घ्नते यु॒जा ॥
अत्रा॒ सं जि᳚घ्नते यु॒जा ॥
पदपाठः (Word-by-word)
नि॒॑रि॒णा॒नः । वि । धा॒व॒ति॒ । जह᳚त् । शर्या᳚णि । तान्वा᳚ ।
अत्र᳚ । सम् । जि॒घ्न॒ते॒ । यु॒जा ॥
अत्र᳚ । सम् । जि॒घ्न॒ते॒ । यु॒जा ॥
सायणभाष्यम् (Sayana Commentary)
अयंसोमो निरिणानः दशापवित्रादधोगच्छन् विधावति विविधं धावति । यदा तान्वा तनु दशापवित्रवस्त्रं तत्संबन्धीनि शर्याणि द्वाराणि जहत् अधः सरति । अत्रास्मिन्यज्ञे युजा सखिभूतेनेन्द्रेणसह संजिघ्नते संगतोभवति वस्त्रसुषिराद्विनिर्गत्य दशापवित्रादधः सरन् पात्रं विविधंगच्छन् होमद्वारेणेन्द्रेण संगतोभवतीत्यर्थः ॥ ४ ॥