श्रवणम्

9.18.1
परि᳚ सुवा॒नो गि᳚रि॒ष्ठाः प॒वित्रे॒ सोमो᳚ अक्षाः ।
मदे᳚षु सर्व॒धा अ᳚सि ॥
▶ पदपाठः (Word-by-word)
परि᳚ । सु॒वा॒नः । गि॒रि॒॑स्थाः । प॒वित्रे᳚ । सोमः᳚ । अ॒क्षा॒रिति᳚ ।
मदे᳚षु । स॒र्व॒॑धाः । अ॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं सोमः पवित्रे पर्यक्षाः परिक्षरति । सुवानः सूयमानः गिरिष्ठागिरिस्थायी ग्रावसु वर्तमानैत्यर्थः । सत्वं मदेषु मादकेषु स्तोतृषु सर्वधाः सर्वदा असि सर्वस्यधाता दाता वा भवसि ॥ १ ॥