श्रवणम्

9.18.7
स शु॒ष्मी क॒लशे॒ष्वा पु᳚ना॒नो अ᳚चिक्रदत् ।
मदे᳚षु सर्व॒धा अ᳚सि ॥
▶ पदपाठः (Word-by-word)
सः । शु॒ष्मी । क॒लशे᳚षु । आ । पु॒ना॒नः । अ॒चि॒क्र॒द॒त् ।
मदे᳚षु । स॒र्व॒॑धाः । अ॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उक्तरीत्या महान् ससोमः शुष्मी बलवान् पुनानः पूयमानः सन् कलशेषु द्रोणकलशेषु आ अचिक्रदत् शब्दं करोति । अत्र सर्वत्र यथोचित- मुत्तरपादोनेयः ॥ ७ ॥

यत्सोमेति सप्तर्चमेकोनविंशं सूक्तं ऋष्याद्याः पुर्ववत् । यत्सोमेत्यनुक्रान्तम् । गतोविनियोगः ।