य इ॒मे रोद᳚सी म॒ही सं मा॒तरे᳚व॒ दोह᳚ते ।
मदे᳚षु सर्व॒धा अ᳚सि ॥
मदे᳚षु सर्व॒धा अ᳚सि ॥
पदपाठः (Word-by-word)
यः । इ॒मे इति᳚ । रोद᳚सी॒ इति᳚ । म॒ही इति᳚ । सम् । मा॒तरा᳚॑इव । दोह᳚ते ।
मदे᳚षु । स॒र्व॒॑धाः । अ॒सि॒ ॥
मदे᳚षु । स॒र्व॒॑धाः । अ॒सि॒ ॥
सायणभाष्यम् (Sayana Commentary)
यः सोमः इमे मही महत्यौ रोदसी द्यावापृथिव्यौ सं दोहते उभयोः सारं परिगऋह्ळातीत्यर्थः । मातरेव यथा द्वे मातरौ एकोवत्सोदोहते तद्वत् ॥ ५ ॥