श्रवणम्

9.18.6
परि॒ यो रोद᳚सी उ॒भे स॒द्यो वाजे᳚भि॒रर्ष᳚ति ।
मदे᳚षु सर्व॒धा अ᳚सि ॥
▶ पदपाठः (Word-by-word)
परि᳚ । यः । रोद᳚सी॒ इति᳚ । उ॒भे इति᳚ । स॒द्यः । वाजे᳚भिः । अर्ष᳚ति ।
मदे᳚षु । स॒र्व॒॑धाः । अ॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः सोमः उभेरो दसी द्यावापृथिव्यौ सद्यस्तदानीमेव वाजेभिरन्नैः पर्यर्षति प्ररिचछति परिगत्य सोमाहुत्या द्यावापृथिव्यावन्नवत्यौ करोतीत्यर्थः ॥ ६ ॥