आ यो विश्वा᳚नि॒ वार्या॒ वसू᳚नि॒ हस्त᳚योर्द॒धे ।
मदे᳚षु सर्व॒धा अ᳚सि ॥
मदे᳚षु सर्व॒धा अ᳚सि ॥
पदपाठः (Word-by-word)
आ । यः । विश्वा᳚नि । वार्या᳚ । वसू᳚नि । हस्त᳚योः । द॒धे ।
मदे᳚षु । स॒र्व॒॑धाः । अ॒सि॒ ॥
मदे᳚षु । स॒र्व॒॑धाः । अ॒सि॒ ॥
सायणभाष्यम् (Sayana Commentary)
यः सोमो विश्वानि वार्या वरणीयानि वसूनि धनानि स्तोतुर्हस्तयोरादधे प्रयच्छतीत्यर्थः । मदेषु सर्वधाअभीति सशुष्मीत्युत्तरत्र संबन्धः ॥ ४ ॥