तव॒ विश्वे᳚ स॒जोष᳚सो दे॒वासः᳚ पी॒तिमा᳚शत ।
मदे᳚षु सर्व॒धा अ᳚सि ॥
मदे᳚षु सर्व॒धा अ᳚सि ॥
पदपाठः (Word-by-word)
तव᳚ । विश्वे᳚ । स॒॑जोष᳚सः । दे॒वासः᳚ । पी॒तिम् । आ॒श॒त॒ ।
मदे᳚षु । स॒र्व॒॑धाः । अ॒सि॒ ॥
मदे᳚षु । स॒र्व॒॑धाः । अ॒सि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम तव पीतिं पानं विश्वेदेवासोदेवाः सजोषसः समानप्रीतयः सन्तः आशत प्राप्नुवन् । । ३ ॥