श्रवणम्

9.18.2
त्वं विप्र॒स्त्वं क॒विर्मधु॒ प्र जा॒तमन्ध᳚सः ।
मदे᳚षु सर्व॒धा अ᳚सि ॥
▶ पदपाठः (Word-by-word)
त्वम् । विप्रः᳚ । त्वम् । क॒विः । मधु᳚ । प्र । जा॒तम् । अन्ध᳚सः ।
मदे᳚षु । स॒र्व॒॑धाः । अ॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं पिप्रो विविधं प्रीणयिता विप्रसदृशोवा त्वं च कविर्मेधावी अतस्त्वं अन्धसः अन्नाज्जातं मधु मधुररसं प्रयच्छसीतिरोषः ॥ २ ॥