श्रवणम्

9.22.1
ए॒ते सोमा᳚स आ॒शवो॒ रथा᳚ इव॒ प्र वा॒जिनः᳚ ।
सर्गा᳚ः सृ॒ष्टा अ᳚हेषत ॥
▶ पदपाठः (Word-by-word)
ए॒ते । सोमा᳚सः । आ॒शवः᳚ । रथाः᳚॑इव । प्र । वा॒जिनः᳚ ।
सर्गाः᳚ । सृ॒ष्टाः । अ॒हे॒ष॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एते पूयमानाः सोमासः सोमाः सृष्टाः अध्वर्युणा आशवो दशापवित्रादधोगमने शीघ्राः प्राहेषत प्रहेषन्ते । शीघ्रगमने दृष्टान्तद्वयं-आजौ सृष्टाः शीघ्रा रथाइव तथा उक्तलक्षणसर्गा वाजिनइव वेजनवन्तोश्वाइव ॥ १ ॥