श्रवणम्

9.22.5
ए॒ते पृ॒ष्ठानि॒ रोद᳚सोर्विप्र॒यन्तो॒ व्या᳚नशुः ।
उ॒तेदमु᳚त्त॒मं रजः᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒ते । पृ॒ष्ठानि᳚ । रोद᳚सोः । वि॒॑प्र॒यन्तः᳚ । वि । आ॒न॒शुः॒ ।
उ॒त । इ॒दम् । उ॒त्॑त॒मम् । रजः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एते सोमाः रोदसोर्द्यावापृथिव्योः पृष्ठानि विप्रयन्तो विविधं गच्छन्तो व्यानशुः व्याप्नुवन्ति । उतापिच इदमुत्तमं रजोद्युलोकं व्यानशुः आहुति- द्वारेणेतिभावः । रोदसोरित्यत्रान्तरिक्षोभिप्रेतः ॥ ५ ॥