त्वं सो᳚म प॒णिभ्य॒ आ वसु॒ गव्या᳚नि धारयः ।
त॒तं तन्तु᳚मचिक्रदः ॥
त॒तं तन्तु᳚मचिक्रदः ॥
पदपाठः (Word-by-word)
त्वम् । सो॒म॒ । प॒णि॑भ्यः᳚ । आ । वसु᳚ । गव्या᳚नि । धा॒र॒यः॒ ।
त॒तम् । तन्तु᳚म् । अ॒चि॒क्र॒दः॒ ॥
त॒तम् । तन्तु᳚म् । अ॒चि॒क्र॒दः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम वं पणिभ्योसुरेभ्योलुब्धकेभ्योवा सकाशात् गव्यानि गोर्हितानि वसु वसूनि गोयूथानि वसूनि चेतिवा आहृत्य धारयोधारयसि । तथा तन्तुं यज्ञं प्रति ततं विस्तृतं यथाभवति तथा अचिक्रदः शब्दमकार्षीः ॥ ७ ॥
सोमाअसग्रमिति सप्तर्चं त्रयोविंशं सूक्तम् । ऋष्याद्याः पुर्ववत् । सोमाअसृग्रमित्यनुक्रान्तम् । गतोविनियोगः ।