श्रवणम्

9.22.2
ए॒ते वाता᳚ इवो॒रवः᳚ प॒र्जन्य᳚स्येव वृ॒ष्टयः᳚ ।
अ॒ग्नेरि᳚व भ्र॒मा वृथा᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒ते । वाताः᳚॑इव । उ॒रवः᳚ । प॒र्जन्य᳚स्य॑इव । वृ॒ष्टयः᳚ ।
अ॒ग्नेः॑इ᳚व । भ्र॒माः । वृथा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एतेसोमा उरवो महान्तो वाताइव वायवइव वृथा अनायासेन व्यानशुरित्युत्तरत्र संबन्धनीयम् । अथवाध्याहारेण निःसरन्तीति योज्यम् । तथा पर्जन्यस्य वृष्टयइव वर्षा यथा त थैव । किंच अग्नेरिव भ्रमाः भ्रमणाः ज्वालासंचाराइव ॥ २ ॥