श्रवणम्

9.22.4
ए॒ते मृ॒ष्टा अम᳚र्त्याः ससृ॒वांसो॒ न श᳚श्रमुः ।
इय᳚क्षन्तः प॒थो रजः᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒ते । मृ॒ष्टाः । अम᳚र्त्याः । स॒सृ॒॑वांसः᳚ । न । श॒श्र॒मुः॒ ।
इय᳚क्षन्तः । प॒थः । रजः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एते सोमाः मृष्टाः दशापवित्रेण शोधिताः अमर्त्या अमरणधर्माणः ससृवांसो हविर्धानात्सरन्तः पथोमार्गान् रजोलोकांश्च इयक्षन्तो गन्तुमिच्छन्तो न शश्रमुः न शाम्यन्ति ॥ ४ ॥