श्रवणम्

9.22.3
ए॒ते पू॒ता वि᳚प॒श्चित॒ः सोमा᳚सो॒ दध्या᳚शिरः ।
वि॒पा व्या᳚नशु॒र्धियः᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒ते । पू॒ताः । वि॒पः॒॑चितः᳚ । सोमा᳚सः । दधि᳚॑आशिरः ।
वि॒पा । वि । आ॒न॒शुः॒ । धियः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एते सोमासः सोमाः पूताः शुद्धाः विपश्चितः प्राज्ञाः दध्याशिरोदध्याश्रयणाः विपा प्रज्ञानेन धियोस्मदीयानि कर्माणि व्यानशुः व्याप्नुवन्ति ॥ ३ ॥