श्रवणम्

9.22.6
तन्तुं᳚ तन्वा॒नमु᳚त्त॒ममनु᳚ प्र॒वत᳚ आशत ।
उ॒तेदमु᳚त्त॒माय्य᳚म् ॥
▶ पदपाठः (Word-by-word)
तन्तु᳚म् । त॒न्वा॒नम् । उ॒त्॑त॒मम् । अनु᳚ । प्र॒॑वतः᳚ । आ॒श॒त॒ ।
उ॒त । इ॒दम् । उ॒त्त॒माय्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तन्तुं यज्ञं तन्वानं उत्तमं उत्कृष्टं सोमं अन्वाशत । उतापिच इदं कर्म अनेन सोमेन उत्तमाय्यं उत्तमीकृतं अथवा तन्तुं तन्वानं सोमं प्रवतः अधःस्थि- ताः सर्वाअन्वाशत । उतेदमुत्तमाय्यं रजोद्युलोकइत्यर्थः सोप्यन्वश्नुते पृथिव्याचान्तरिक्षेण चोत्तमीकृतमुत्तमाय्यम् ॥ ६ ॥