श्रवणम्

9.7.1
असृ᳚ग्र॒मिन्द᳚वः प॒था धर्म᳚न्नृ॒तस्य᳚ सु॒श्रियः᳚ ।
वि॒दा॒ना अ᳚स्य॒ योज᳚नम् ॥
▶ पदपाठः (Word-by-word)
असृ᳚ग्रम् । इन्द᳚वः । प॒था । धर्म᳚न् । ऋ॒तस्य᳚ । सु॒॑श्रिय᳚ह् ।
वि॒दा॒नाः । अ॒स्य॒ । योज᳚नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुश्रियः शोभनश्रयणा अस्येन्द्रस्य योजनं संबन्धं विदाना जानन्तइन्दवः सोमाः धर्मन् कर्मणि ऋतस्य यज्ञस्य पथा मार्गेण असृग्रं हविर्धानाः सृज्यन्ते ॥ १ ॥