अव्यो॒ वारे॒ परि᳚ प्रि॒यो हरि॒र्वने᳚षु सीदति ।
रे॒भो व᳚नुष्यते म॒ती ॥
रे॒भो व᳚नुष्यते म॒ती ॥
पदपाठः (Word-by-word)
अव्यः᳚ । वारे᳚ । परि᳚ । प्रि॒यः । हरिः᳚ । वने᳚षु । सी॒द॒ति॒ ।
रे॒भः । व॒नु॒ष्य॒ते॒ । म॒ती ॥
रे॒भः । व॒नु॒ष्य॒ते॒ । म॒ती ॥
सायणभाष्यम् (Sayana Commentary)
हरिर्हरितवर्णः प्रियोदेवानां प्रियतमएव सोमो वनेषूदकेषु संपृक्तः अव्यः अवेः वारे वालोपेते परिसीदति निषीदति । किंच रेभोभिषववेलायां उपरवेषु शब्दं कुर्वन् मती मत्या स्तुत्या वनुष्यते सेव्यते ॥ ६ ॥