परि॒ यत्काव्या᳚ क॒विर्नृ॒म्णा वसा᳚नो॒ अर्ष᳚ति ।
स्व᳚र्वा॒जी सि᳚षासति ॥
स्व᳚र्वा॒जी सि᳚षासति ॥
पदपाठः (Word-by-word)
परि᳚ । यत् । काव्या᳚ । क॒विः । नृ॒म्णा । वसा᳚नः । अर्ष᳚ति ।
स्वः᳚ । वा॒जी । सि॒सा॒स॒ति॒ ॥
स्वः᳚ । वा॒जी । सि॒सा॒स॒ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
कविः क्रान्तकर्मा सोमो नृम्णा धनानि वसानः आच्छादयन् स्तोतॄणां काव्या काव्यानि कविकर्माणि स्तोत्राणि यद्यदा पर्यर्षति परिगच्छति तदा स्वः स्वर्गे वाजीबलवानन्नवान्वेन्द्रः सिषासति यागं प्रत्यागन्तुं स्वकीयं बलं संभक्तुमिच्छति ॥ ४ ॥