पव᳚मानो अ॒भि स्पृधो॒ विशो॒ राजे᳚व सीदति ।
यदी᳚मृ॒ण्वन्ति᳚ वे॒धसः᳚ ॥
यदी᳚मृ॒ण्वन्ति᳚ वे॒धसः᳚ ॥
पदपाठः (Word-by-word)
पव᳚मानः । अ॒भि । स्पृधः᳚ । विशः᳚ । राजा᳚॑इव । सी॒द॒ति॒ ।
यत् । ई॒म् । ऋ॒ण्वन्ति᳚ । वे॒धसः᳚ ॥
यत् । ई॒म् । ऋ॒ण्वन्ति᳚ । वे॒धसः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
यद्यदा ईमेनं सोमं वेधसः कर्मणां कर्तारः ऋण्वन्ति प्रेरयन्ति तदा पवमानः क्षरन्नेषसोमः स्पृधः स्पर्धमानान् यागविघ्नकारिणोराक्षसान् विशः स्पर्धमानान् मनुष्यान् राजेव यथा राजा तद्वदभिसीदति नाशयितुमभिगच्छति ॥ ५ ॥