प्र धारा॒ मध्वो᳚ अग्रि॒यो म॒हीर॒पो वि गा᳚हते ।
ह॒विर्ह॒विष्षु॒ वन्द्य᳚ः ॥
ह॒विर्ह॒विष्षु॒ वन्द्य᳚ः ॥
पदपाठः (Word-by-word)
प्र । धारा᳚ । मध्वः᳚ । अ॒ग्रि॒यः । म॒हीः । अ॒पः । वि । गा॒ह॒ते॒ ।
ह॒विः । ह॒विष्षु᳚ । वन्द्यः᳚ ॥
ह॒विः । ह॒विष्षु᳚ । वन्द्यः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हविःषु हविषांमध्ये वंद्यः स्तुत्योहविः हविरात्मकोयः सोमो महीर्महतीरपोवसतीवरीर्विगाहते तस्य मध्वः सोमस्य अग्रियो मुख्याधाराः प्रपतन्तीत्यर्थः ॥ २ ॥