श्रवणम्

9.7.8
आ मि॒त्रावरु᳚णा॒ भगं॒ मध्व᳚ः पवन्त ऊ॒र्मयः᳚ ।
वि॒दा॒ना अ᳚स्य॒ शक्म᳚भिः ॥
▶ पदपाठः (Word-by-word)
आ । मि॒त्रावरु᳚णा । भग᳚म् । मध्वः᳚ । प॒व॒न्ते॒ । ऊ॒र्मयः᳚ ।
वि॒दा॒नाः । अ॒स्य॒ । शक्म᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

येषां यजमानानां मध्वः सोमस्योर्मयस्तरंगाः मित्रावरुणा मित्रावरुणौ देवौ भगं भगाख्यं देवं च प्रति पवन्ते क्षरन्ति । ते यजमानाः अस्य सोमस्य इमं सोमं विदाना जानन्तः शक्मभिः सुखैः संगच्छन्तइति शेषः ॥ ८ ॥