श्रवणम्

9.7.3
प्र यु॒जो वा॒चो अ᳚ग्रि॒यो वृषाव᳚ चक्रद॒द्वने᳚ ।
सद्मा॒भि स॒त्यो अ᳚ध्व॒रः ॥
▶ पदपाठः (Word-by-word)
प्र । यु॒जः । वा॒चः । अ॒ग्रि॒यः । वृषा᳚ । अव᳚ । च॒क्र॒द॒त् । वने᳚ ।
सद्म᳚ । अ॒भि । स॒त्यः । अ॒ध्व॒रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एतदेव दर्शयति वृषाकामानां वर्षकः सत्यः सत्यभूतः अध्वरोहिंसावर्जितः अग्रियोमुख्यः सोमः सद्म यज्ञगृहमभि प्रति वने उदके युजोयुक्ताः वाचोवाणीः प्रावचक्रदत् अवक्रंदति शब्दान् करोतीत्यर्थः ॥ ३ ॥