आ दक्षि᳚णा सृज्यते शु॒ष्म्या॒३॒᳚सदं॒ वेति᳚ द्रु॒हो र॒क्षसः᳚ पाति॒ जागृ᳚विः ।
हरि᳚रोप॒शं कृ᳚णुते॒ नभ॒स्पय᳚ उप॒स्तिरे᳚ च॒म्वो॒३॒᳚र्ब्रह्म᳚ नि॒र्णिजे᳚ ॥
हरि᳚रोप॒शं कृ᳚णुते॒ नभ॒स्पय᳚ उप॒स्तिरे᳚ च॒म्वो॒३॒᳚र्ब्रह्म᳚ नि॒र्णिजे᳚ ॥
पदपाठः (Word-by-word)
आ । दक्षि᳚णा । सृ॒ज्य॒ते॒ । शु॒ष्मी । आ॒॑सद᳚म् । वेति᳚ । द्रु॒हः । र॒क्षसः᳚ । पा॒ति॒ । जागृ᳚विः ।
हरिः᳚ । ओ॒प॒शम् । कृ॒णु॒ते॒ । नभः᳚ । पयः᳚ । उ॒प॒॑स्तिरे᳚ । च॒म्वोः᳚ । ब्रह्म᳚ । निः॒॑निजे᳚ ॥
हरिः᳚ । ओ॒प॒शम् । कृ॒णु॒ते॒ । नभः᳚ । पयः᳚ । उ॒प॒॑स्तिरे᳚ । च॒म्वोः᳚ । ब्रह्म᳚ । निः॒॑निजे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
सोमस्य स्वभूतेयज्ञे ऋत्विग्भ्योदक्षणा आसृज्यते अस्माभिः प्रदीयते शुष्मी बलवान् सोमः आसदमास्थानं द्रोणाख्यं वेति प्रविशति । किंच जागृविः जागरणशीलः सोमः द्रुहः द्रोहकारिणोरक्षसो राक्षसात्पाति स्तोतॄन् रक्षति । अपिच हरिर्हरितवर्णः सोमः ओपशं आसमन्तादुपशेतेइत्योपशः सर्वस्य धारकं नभो नभसआदित्यस्य स्वभूतं पयः उदकं कृणुते सर्वत्रकरोति । अग्नौप्रास्ताहुतिरित्यादिक्रमेण करोतीत्यर्थः । यद्वा नभोन्तरिक्षं पयः पयसोधारकं करोति । किंच अयंसोमश्चम्वोर्द्यावापृथिवीनामैतत् चमन्ति भक्षयन्ति मनुष्य- देवाअत्रेति तयोरुपस्तिरे उपस्तरणाय आच्छादनाय ब्रह्मबृहदुद्यत्तमांसि विनाशयन्तम् । यद्वा परिवृढं सूर्यं द्युलोके करोति तथा तमेवसूर्यं निर्निजे पदार्थानां निर्नेजनाय परिशो- धनायच करोति आदित्योहि द्यावापृथिव्यौ स्वतेजसोपस्पृणाति सहि स्वभासा सर्वंनिर्ने- क्तिच ॥ १ ॥