परि᳚ द्यु॒क्षं सह᳚सः पर्वता॒वृधं॒ मध्व᳚ः सिञ्चन्ति ह॒र्म्यस्य᳚ स॒क्षणि᳚म् ।
आ यस्मि॒न्गावः᳚ सुहु॒ताद॒ ऊध᳚नि मू॒र्धञ्छ्री॒णन्त्य᳚ग्रि॒यं वरी᳚मभिः ॥
आ यस्मि॒न्गावः᳚ सुहु॒ताद॒ ऊध᳚नि मू॒र्धञ्छ्री॒णन्त्य᳚ग्रि॒यं वरी᳚मभिः ॥
पदपाठः (Word-by-word)
परि᳚ । द्यु॒क्षम् । सह᳚सः । प॒र्व॒त॒॑वृध᳚म् । मध्वः᳚ । सि॒ञ्च॒न्ति॒ । ह॒र्म्यस्य᳚ । स॒क्षणि᳚म् ।
आ । यस्मि᳚न् । गावः᳚ । सु॒हु॒त॒॑आदः᳚ । ऊध᳚नि । मू॒र्धन् । श्री॒णन्ति᳚ । अ॒ग्रि॒यम् । वरी᳚म॑भिः ॥
आ । यस्मि᳚न् । गावः᳚ । सु॒हु॒त॒॑आदः᳚ । ऊध᳚नि । मू॒र्धन् । श्री॒णन्ति᳚ । अ॒ग्रि॒यम् । वरी᳚म॑भिः ॥
सायणभाष्यम् (Sayana Commentary)
सहसः सहस्विनोमध्वोमदकराः सोमाः द्युक्षं दीप्यमाने द्युलोके क्षियन्तं निवसन्तं प- र्वतावृधं मेघानां पर्वतानां वा वर्धयितारं हर्म्यस्य शत्रुपुरस्य सक्षणिमभिभवितारमिन्द्रं परिषिंचति । तथा सुहुतादः सुहुतानां हविषां भक्षयितारोगावो मूर्धन् मूर्धनि समुच्छ्रिते ऊधनि पयोधारकेस्थाने स्थितमग्रियं मुख्यं पयः वरीमभिरुरुत्वैः महत्वैर्यस्मिन्पवमानगुण विशिष्टइन्द्रे आश्रीणंति आमिश्रयन्ति दध्ना पयसाच सोमंश्रीणन्ति खलु तदुच्यते ॥ ४ ॥