प्र कृ᳚ष्टि॒हेव᳚ शू॒ष ए᳚ति॒ रोरु᳚वदसु॒र्यं१॒᳚ वर्णं॒ नि रि᳚णीते अस्य॒ तम् ।
जहा᳚ति व॒व्रिं पि॒तुरे᳚ति निष्कृ॒तमु᳚प॒प्रुतं᳚ कृणुते नि॒र्णिजं॒ तना᳚ ॥
जहा᳚ति व॒व्रिं पि॒तुरे᳚ति निष्कृ॒तमु᳚प॒प्रुतं᳚ कृणुते नि॒र्णिजं॒ तना᳚ ॥
पदपाठः (Word-by-word)
प्र । कृ॒ष्टि॒हा॑इ᳚व । शू॒षः । ए॒ति॒ । रोरु᳚वत् । अ॒सु॒र्य᳚म् । वर्ण᳚म् । नि । रि॒णी॒ते॒ । अ॒स्य॒ । तम् ।
जहा᳚ति । व॒व्रिम् । पि॒तुः । ए॒ति॒ । निः॒॑कृ॒तम् । उ॒प॒॑प्रुत᳚म् । कृ॒णु॒ते॒ । निः॒॑निज᳚म् । तना᳚ ॥
जहा᳚ति । व॒व्रिम् । पि॒तुः । ए॒ति॒ । निः॒॑कृ॒तम् । उ॒प॒॑प्रुत᳚म् । कृ॒णु॒ते॒ । निः॒॑निज᳚म् । तना᳚ ॥
सायणभाष्यम् (Sayana Commentary)
शूषः शत्रूणांशोषकः बलवान् सोमः रोरुवत् अत्यन्तं शब्दंकुर्वन् कृष्टिहेव मनुष्याणां- हन्ता योद्धेव प्रैति प्रगच्छति । किंच असुर्यं असुराणां बाधकं अस्यात्मनोवर्णं हरितं आवा- रकं बलंवा निरिणीत निर्गमयति । ततः ससोमः वव्रिं वृणोति शरिरमिति वव्रिर्जरा तां जहाति त्यजति । कथमिति चेत् तदुच्यते पितुरन्नं सोमः निष्कृतं संस्कृतं द्रोणकलशं दिवं वा इदानीमेति गच्छति । किंच सोमः तनाविवालेन तते विस्तृते दशापवित्रे निर्निजं नि- र्निगितिरूपनाम आत्मीयं रूपं उपप्रुतं उपगमनशीलं कृणुते करोति तस्माज्जरां त्यजती- त्यर्थः ॥ २ ॥