श्रवणम्

9.71.5
समी॒ रथं॒ न भु॒रिजो᳚रहेषत॒ दश॒ स्वसा᳚रो॒ अदि᳚तेरु॒पस्थ॒ आ ।
जिगा॒दुप᳚ ज्रयति॒ गोर᳚पी॒च्यं᳚ प॒दं यद᳚स्य म॒तुथा॒ अजी᳚जनन् ॥
▶ पदपाठः (Word-by-word)
सम् । ई॒मिति᳚ । रथ᳚म् । न । भु॒रिजोः᳚ । अ॒हे॒ष॒त॒ । दश᳚ । स्वसा᳚रः । अदि᳚तेः । उ॒प॑स्थे᳚ । आ ।
जिगा᳚त् । उप᳚ । ज्र॒य॒ति॒ । गोः । अ॒पी॒च्य᳚म् । प॒दम् । यत् । अ॒स्य॒ । म॒तुथाः᳚ । अजी᳚जनन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

भुरिजोर्बाहुनामैतत् । बिभ्रति पदार्थानाभ्यामिति । तयोर्बाह्वोः दश दशसंख्याकाः स्वसारः सर्वत्र सरणशीलाः अंगुलयः अदितेर्भूमेरुपस्थे समीपे देवयजनदेशे ईमेनं सोम माभिमुख्येन समहेषत संप्रेरयन्ति । हिवर्धनगत्योः लुङिरूपम् । कथमिव रथंन रथं यथां गुलयः प्रेरयंति तद्वत् ससोमः जिगात् पात्राणि गच्छति । किंच गोर्धेनोरपीच्यमन्तर्हितं पय उपज्रयति तदानीं उपगच्छति यद्यदा मतुथा मननीयगाथावन्तः स्तोतारः अस्य सोमस्य पदं स्थानं अजीजनन् जनयन्ति तदानीमित्यर्थः ॥ ५ ॥ अभिष्टवे श्येनोनयोनिमित्येषा । सूत्रितंच—संप्रेषितः श्येनोनयोनिंसदनंधियाकृतमिति । अग्नीषोमप्रनयनेप्येषा । सूत्रितंच—अन्तश्चप्रागाअदितिर्भवासि श्येनोनयोनिंसदनंधियाकृत मिति ।