श्रवणम्

9.71.8
त्वे॒षं रू॒पं कृ᳚णुते॒ वर्णो᳚ अस्य॒ स यत्राश᳚य॒त्समृ᳚ता॒ सेध᳚ति स्रि॒धः ।
अ॒प्सा या᳚ति स्व॒धया॒ दैव्यं॒ जनं॒ सं सु᳚ष्टु॒ती नस᳚ते॒ सं गोअ᳚ग्रया ॥
▶ पदपाठः (Word-by-word)
त्वे॒षम् । रू॒पम् । कृ॒णु॒ते॒ । वर्णः᳚ । अ॒स्य॒ । सः । यत्र᳚ । अश᳚यत् । सम्॑ऋ᳚ता । सेध᳚ति । स्रि॒धः ।
अ॒प्साः । या॒ति॒ । स्व॒धया᳚ । दैव्य᳚म् । जन᳚म् । सम् । सु॒॑स्तु॒ती । नस᳚ते । सम् । गो॑अ᳚ग्रया ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यान्वादेशे शादेशः । अस्य सोमस्य स्वभूतोवर्णः शत्रूणांनिवारकोरश्मिः त्वेषं दी- प्यमानं रूपं कृणुते करोति । सरश्मिः यत्र समृता अर्तेःक्तिनिरूपं सम्यक् प्राप्यते योद्धृ भिरत्रेति संग्रामः अस्मिन् समृतौ युद्धे अशयत् शेते तिष्ठति । शीङोलङि बहुलंछन्दसीति श्पोलुगभावः । तत्रयुद्धे सरश्मिः स्रिधः शोषकान् शत्रून् सेधति निषेधति हिनस्तीतिया- वत् । वाक्यभेदादनिघातः । किंच अप्साः सनोतेर्विटि आत्वे च कृते रूपम् । अपामुदकानां दाता । यद्वा वसतीवर्याख्यानामपां संभक्ता सोयं स्वधया हवीरूपेणान्नेन सह देव्यं देवा- नांसंबन्धिनं जनं प्रतियाति गच्छति । अपिच सोयं सुष्टुती स्तुत्या संगच्छते उपसर्गश्रुतेर्यो ग्यक्रियाध्याहारः । किंच ससोमः गोअग्रया गवादिमुख्याया यया वाचा स्तोतारः पशून् याचन्ते तया वाचा संनसते संगतोभवति । नसतिर्गत्यर्थः भिन्नवाक्यत्वादनिघातः ॥ ८ ॥