श्रवणम्

9.71.6
श्ये॒नो न योनिं॒ सद᳚नं धि॒या कृ॒तं हि᳚र॒ण्यय᳚मा॒सदं᳚ दे॒व एष᳚ति ।
ए रि᳚णन्ति ब॒र्हिषि᳚ प्रि॒यं गि॒राश्वो॒ न दे॒वा{4} अप्ये᳚ति य॒ज्ञियः᳚ ॥
▶ पदपाठः (Word-by-word)
श्ये॒नः । न । योनि᳚म् । सद᳚नम् । धि॒या । कृ॒तम् । हि॒र॒ण्यय᳚म् । आ॒॑सद᳚म् । दे॒वः । आ । ई॒ष॒ति॒ ।
आ । ई॒मिति᳚ । रि॒ण॒न्ति॒ । ब॒र्हिषि᳚ । प्रि॒यम् । गि॒रा । अश्वः᳚ । न । दे॒वान् । अपि᳚ । ए॒ति॒ । य॒ज्ञियः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवोद्योतमानः पवमानः धिया स्वकर्मणा कृतं संपादितं हिरण्ययं हिरण्मयमासदमा- संद्यभिधानं सदनं गृहमेषति अभिमुखं गच्छति । ईषतेर्गत्यर्थस्य व्यत्ययेन परस्मैपदम् । तत्र दृष्टान्तः—श्येनोन योनिं कुलायं यथा श्येनः पक्षी प्रविशति तद्वत् । तत ईमेनं प्रियं प्री- णयितारं सोमं गिरा स्तुत्या बर्हिषि यज्ञे आरिणन्ति स्तोतारोभिमुखं प्रेरयन्ति स्तुवन्ती त्यर्थः । अनन्तरं यज्ञियो यज्ञार्हो यष्टव्योयं सोमः अश्वोन अश्वइव त्वरया देवानप्येति अभिगच्छति ॥ ६ ॥