श्रवणम्

9.71.7
परा॒ व्य᳚क्तो अरु॒षो दि॒वः क॒विर्वृषा᳚ त्रिपृ॒ष्ठो अ᳚नविष्ट॒ गा अ॒भि ।
स॒हस्र᳚णीति॒र्यति᳚ः परा॒यती᳚ रे॒भो न पू॒र्वीरु॒षसो॒ वि रा᳚जति ॥
▶ पदपाठः (Word-by-word)
परा᳚ । वि॑अ᳚क्तः । अ॒रु॒षः । दि॒वः । क॒विः । वृषा᳚ । त्रि॒॑पृ॒ष्ठः । अ॒न॒वि॒ष्ट॒ । गाः । अ॒भि ।
स॒हस्र᳚॑नीतिः । यतिः᳚ । प॒रा॒॑यतिः᳚ । रे॒भः । न । पू॒र्वीः । उ॒षसः᳚ । वि । रा॒ज॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अरुष आरोचमानः कविः क्रान्तप्रज्ञः सोमः व्यक्तः विस्पष्टधारायुक्तः यद्वा वसतीवरी भिर्विशेषेणसिक्तःसन् दिवोन्तरिक्षात् परा परङ्मुखमागच्छति पवित्रात् द्रोणकलशं पराग च्छतीत्यर्थः । वृषा वृषभस्त्रिपृष्ठः त्रीणि सवनानि पृष्ठानि अस्येति त्रिपृष्ठः सोमस्य सर्वेषु विद्यमानत्वात् तस्मात् त्रिपृष्ठः सोमः गाः स्तोतृभिः क्रियमाणाः स्तुतीरभिलक्ष्य अनविष्ट शब्दायते । नुश्ब्दे । किंच सहस्रनीतिः सहस्रनयनः प्रयोगबाहुल्यापेक्षं ग्रहेषु चमसेषुच सह स्रविधनयनत्वं अतएव यतिः पात्रादीनि प्रत्यागंता परायति कलशान् प्रति परागंता भवति सोयं पूर्वीर्बह्वीरुषसः कालाध्वनोरितिद्वितीया बहुषूषःकालेषु रेभोन रेभृशब्दे शब्दायमा- नः स्तोतेव विराजति विशेषेण दीप्यते । तेषु सोमस्याभिषूयमाणत्वात् स्तोता खलु देवा- नां स्तुतिकरणेन राजति ॥ ७ ॥