प्र स्वा॒नासो॒ रथा᳚ इ॒वार्व᳚न्तो॒ न श्र᳚व॒स्यवः᳚ ।
सोमा᳚सो रा॒ये अ᳚क्रमुः ॥
सोमा᳚सो रा॒ये अ᳚क्रमुः ॥
पदपाठः (Word-by-word)
प्र । स्वा॒नासः᳚ । रथाः᳚॑इव । अर्व᳚न्तः । न । श्र॒व॒स्यवः᳚ ।
सोमा᳚सः । रा॒ये । अ॒क्र॒मुः॒ ॥
सोमा᳚सः । रा॒ये । अ॒क्र॒मुः॒ ॥
सायणभाष्यम् (Sayana Commentary)
प्रस्वानासोभिषववेलायां उपरवेषु शब्दंकुर्वन्तः सोमासः सोमाः रथाइव यथाशब्दं कुर्वन्तोरथाः अर्वन्तोन यथा शब्दंकुर्वन्तोश्वाः तथा श्रवस्यवः शत्रु भ्योन्नमिच्छन्तोराये यजमानानां धनाय अक्रमुः आगच्छन् ॥ १ ॥