श्रवणम्

9.10.2
हि॒न्वा॒नासो॒ रथा᳚ इव दधन्वि॒रे गभ᳚स्त्योः ।
भरा᳚सः का॒रिणा᳚मिव ॥
▶ पदपाठः (Word-by-word)
हि॒न्वा॒नासः᳚ । रथाः᳚॑इव । द॒ध॒न्वि॒रे । गभ᳚स्त्योः ।
भरा᳚सः । का॒रिणा᳚म्॑इव ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमा रथाइव यथारथास्तथा हिन्वानासो हिन्वाना यागदेशंप्रति गच्छन्तोभरासोभराः कारिणामिव यथा भारवाहानां बाह्वोर्धीयन्ते तथा गभस्त्योः ऋत्विजां बाह्वोः । गभस्ती बाहूइति बाहुनामसुपाठात् । दधन्विरे धीयन्ते ॥ २ ॥