स॒मी॒ची॒नास᳚ आसते॒ होता᳚रः स॒प्तजा᳚मयः ।
प॒दमेक᳚स्य॒ पिप्र᳚तः ॥
प॒दमेक᳚स्य॒ पिप्र᳚तः ॥
पदपाठः (Word-by-word)
स॒मी॒ची॒नासः᳚ । आ॒स॒ते॒ । होता᳚रः । स॒प्त॑जा᳚मयः ।
प॒दम् । एक᳚स्य । पिप्र᳚तः ॥
प॒दम् । एक᳚स्य । पिप्र᳚तः ॥
सायणभाष्यम् (Sayana Commentary)
समीचीनासः समीचीनाः जामयो जामिसदृशाः एकस्य सोमस्य पदं स्थानं पिप्रतः पूरयन्तः सप्तहोतारः सप्तहोत्रकाः आसते यज्ञे उपविशन्ति ॥ ७ ॥