श्रवणम्

9.10.3
राजा᳚नो॒ न प्रश᳚स्तिभि॒ः सोमा᳚सो॒ गोभि᳚रञ्जते ।
य॒ज्ञो न स॒प्त धा॒तृभि᳚ः ॥
▶ पदपाठः (Word-by-word)
राजा᳚नः । न । प्रश᳚स्ति॑भिः । सोमा᳚सः । गोभिः᳚ । अ॒ञ्ज॒ते॒ ।
य॒ज्ञः । न । स॒प्त । धा॒तृ॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमासः सोमाः प्रशस्तिभिः प्रशस्ताभिः स्तुतिरूपाभिर्वाग्भिः राजानोन यथाराजानः सप्तधातृभिः सप्तहोत्राभिः यज्ञोन यथाच यज्ञस्तथा गोभिर्गोविकारैः पयोभिरंजते अंज्यन्ते संस्क्रियन्तइत्यर्थः ॥ ३ ॥