श्रवणम्

9.10.6
अप॒ द्वारा᳚ मती॒नां प्र॒त्ना ऋ᳚ण्वन्ति का॒रवः᳚ ।
वृष्णो॒ हर᳚स आ॒यवः᳚ ॥
▶ पदपाठः (Word-by-word)
अप᳚ । द्वारा᳚ । म॒ती॒नाम् । प्र॒त्नाः । ऋ॒ण्व॒न्ति॒ । का॒रवः᳚ ।
वृष्णः᳚ । हर᳚से । आ॒यवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मतीनां स्तुतीनां कारवः कर्तारः ऋत्विजः प्रत्नाः पुराणाः वृष्णः सेचकस्य सोमस्य हरये हरसः आहर्तारश्च आयवोमनुष्याः द्वारा यज्ञस्य द्वाराणि अपऋण्वंति ॥ ६ ॥